TA 1.22

12 पञ्चाशत्

T.A.1.22.1
यो॑ऽपां पुष्पं॒ ॅवेद॑ । पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति । च॒न्द्रमा॒ वा अ॒पां पुष्पं᳚ । पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति । य ए॒वं ॅवेद॑ ॥ यो॑ऽपामा॒यत॑नं॒ ॅवेद॑ । आ॒यत॑नवान् भवति । अ॒ग्निर्वा अ॒पामा॒यत॑नं । आ॒यत॑नवान् भवति । यो᳚ऽग्नेरा॒यत॑नं॒ ॅवेद॑
कोर्वै (Index)
(वेद॑ - भव - त्या॒यत॑नं - भवति॒ - वेद॒ - वेद॑ - तिष्ठति - गुल्फद॒घ्नं - चा॑तुर्मा॒स्ये - ष्व॒मुमा॑दि॒त्यं प्र॒त्यक्षे॑ण॒ कम॒ग्निं चि॑नुत - उपानुवा॒क्य॑मा॒शुम॒ग्निं चि॑न्वा॒नो - मि॑थू॒या मि॑थुन॒वान् भ॑व॒त्येकं॑ च)
T.A.1.22.2
आ॒यत॑नवान् भवति । आपो॒ वा अ॒ग्नेरा॒यत॑नं । आ॒यत॑नवान् भवति । य ए॒वं ॅवेद॑ ॥ यो॑ऽपामा॒॒यत॑नं॒ ॅवेद॑ । आ॒यत॑नवान् भवति । वा॒युर्वा अ॒पामा॒यत॑नं । आ॒यत॑नवान् भवति । यो वा॒योरा॒यत॑नं॒ ॅवेद॑ । आ॒यत॑नवान् भवति
कोर्वै (Index)
(वेद॑ - भव - त्या॒यत॑नं - भवति॒ - वेद॒ - वेद॑ - तिष्ठति - गुल्फद॒घ्नं - चा॑तुर्मा॒स्ये - ष्व॒मुमा॑दि॒त्यं प्र॒त्यक्षे॑ण॒ कम॒ग्निं चि॑नुत - उपानुवा॒क्य॑मा॒शुम॒ग्निं चि॑न्वा॒नो - मि॑थू॒या मि॑थुन॒वान् भ॑व॒त्येकं॑ च)
T.A.1.22.3
आपो॒ वै वा॒योरा॒यत॑नं । आ॒यत॑नवान् भवति । य ए॒वं ॅवेद॑ ॥ यो॑ऽपामा॒यत॑नं॒ ॅवेद॑ । आ॒यत॑नवान् भवति । अ॒सौ वै तप॑न्न॒पा-मा॒यत॑नं । आ॒यत॑नवान् भवति । यो॑ऽमुष्य॒-तप॑त आ॒यत॑नं॒ ॅवेद॑ । आ॒यत॑नवान् भवति । आपो॒वा अ॒मुष्य॒-तप॑त आ॒यत॑नं
कोर्वै (Index)
(वेद॑ - भव - त्या॒यत॑नं - भवति॒ - वेद॒ - वेद॑ - तिष्ठति - गुल्फद॒घ्नं - चा॑तुर्मा॒स्ये - ष्व॒मुमा॑दि॒त्यं प्र॒त्यक्षे॑ण॒ कम॒ग्निं चि॑नुत - उपानुवा॒क्य॑मा॒शुम॒ग्निं चि॑न्वा॒नो - मि॑थू॒या मि॑थुन॒वान् भ॑व॒त्येकं॑ च)
T.A.1.22.4
आ॒यत॑नवान् भवति । य ए॒वं ॅवेद॑ ॥ यो॑ऽपामा॒यत॑नं॒ ॅवेद॑ । आ॒यत॑नवान् भवति । च॒न्द्रमा॒ वा अ॒पामा॒यत॑नं । आ॒यत॑नवान् भवति । यश्च॒न्द्रम॑स आ॒यत॑नं॒ ॅवेद॑ । आ॒यत॑नवान् भवति । आपो॒ वै च॒न्द्रम॑स आ॒यत॑नं । आ॒यत॑नवान् भवति
कोर्वै (Index)
(वेद॑ - भव - त्या॒यत॑नं - भवति॒ - वेद॒ - वेद॑ - तिष्ठति - गुल्फद॒घ्नं - चा॑तुर्मा॒स्ये - ष्व॒मुमा॑दि॒त्यं प्र॒त्यक्षे॑ण॒ कम॒ग्निं चि॑नुत - उपानुवा॒क्य॑मा॒शुम॒ग्निं चि॑न्वा॒नो - मि॑थू॒या मि॑थुन॒वान् भ॑व॒त्येकं॑ च)
T.A.1.22.5
य ए॒वं ॅवेद॑ ॥ यो॑ऽपामा॒यत॑नं॒ ॅवेद॑ । आ॒यत॑नवान् भवति । नक्ष॑त्राणि॒ वा अ॒पामा॒यत॑नं । आ॒यत॑नवान् भवति । यो नक्ष॑त्राणा-मा॒यत॑नं॒ ॅवेद॑ । आ॒यत॑नवान् भवति । आपो॒ वै नक्ष॑त्राणा-मा॒यत॑नं । आ॒यत॑नवान् भवति । य ए॒वं ॅवेद॑ ।
कोर्वै (Index)
(वेद॑ - भव - त्या॒यत॑नं - भवति॒ - वेद॒ - वेद॑ - तिष्ठति - गुल्फद॒घ्नं - चा॑तुर्मा॒स्ये - ष्व॒मुमा॑दि॒त्यं प्र॒त्यक्षे॑ण॒ कम॒ग्निं चि॑नुत - उपानुवा॒क्य॑मा॒शुम॒ग्निं चि॑न्वा॒नो - मि॑थू॒या मि॑थुन॒वान् भ॑व॒त्येकं॑ च)
T.A.1.22.6
यो॑ऽपामा॒यत॑नं॒ ॅवेद॑ । आ॒यत॑नवान् भवति । प॒र्जन्यो॒ वा अ॒पामा॒यत॑नं । आ॒यत॑नवान् भवति । य: प॒र्जन्य॑-स्या॒यत॑नं॒ ॅवेद॑ । आ॒यत॑नवान् भवति । आपो॒ वै प॒र्जन्य॑-स्या॒यत॑नं । आ॒यत॑नवान् भवति । य ए॒वं ॅवेद॑ ॥ यो॑ऽपामा॒यत॑नं॒ ॅवेद॑ ।
कोर्वै (Index)
(वेद॑ - भव - त्या॒यत॑नं - भवति॒ - वेद॒ - वेद॑ - तिष्ठति - गुल्फद॒घ्नं - चा॑तुर्मा॒स्ये - ष्व॒मुमा॑दि॒त्यं प्र॒त्यक्षे॑ण॒ कम॒ग्निं चि॑नुत - उपानुवा॒क्य॑मा॒शुम॒ग्निं चि॑न्वा॒नो - मि॑थू॒या मि॑थुन॒वान् भ॑व॒त्येकं॑ च)
T.A.1.22.7
आ॒यत॑नवान् भवति । स॒म्ॅव॒थ्स॒रो वा अ॒पामा॒यत॑नं । आ॒यत॑नवान् भवति । यः स॑म्ॅवथ्स॒र-स्या॒यत॑नं॒ ॅवेद॑ । आ॒यत॑नवान् भवति । आपो॒ वै स॑म्ॅवथ्स॒र-स्या॒यत॑नं । आ॒यत॑नवान् भवति । य ए॒वं ॅवेद॑ ॥ यो᳚ऽफ्सु नावं॒ प्रति॑ष्ठितां॒ ॅवेद॑ । प्रत्ये॒व ति॑ष्ठति
कोर्वै (Index)
(वेद॑ - भव - त्या॒यत॑नं - भवति॒ - वेद॒ - वेद॑ - तिष्ठति - गुल्फद॒घ्नं - चा॑तुर्मा॒स्ये - ष्व॒मुमा॑दि॒त्यं प्र॒त्यक्षे॑ण॒ कम॒ग्निं चि॑नुत - उपानुवा॒क्य॑मा॒शुम॒ग्निं चि॑न्वा॒नो - मि॑थू॒या मि॑थुन॒वान् भ॑व॒त्येकं॑ च)
T.A.1.22.8
इ॒मे वै लो॒का अ॒फ्सु प्रति॑ष्ठिताः । तदे॒षाऽभ्यनू᳚क्ता ॥ अ॒पाꣳ रस॒मुद॑यꣳसन्न् । सूर्ये॑ शु॒क्रꣳ स॒माभृ॑तं । अ॒पाꣳ रस॑स्य॒ यो रसः॑ । तं ॅवो॑ गृह्णा-म्युत्त॒ममिति॑ ॥ इ॒मे वै लो॒का अ॒पाꣳ रसः॑ । ते॑ऽमुष्मि॑न्-नादि॒त्ये स॒माभ॑ताः ॥ जा॒नु॒द॒घ्नी-मु॑त्तर-वे॒दीङ्खा॒त्वा । अ॒पां पू॑रयि॒त्वा गु॑ल्फद॒घ्नं
कोर्वै (Index)
(वेद॑ - भव - त्या॒यत॑नं - भवति॒ - वेद॒ - वेद॑ - तिष्ठति - गुल्फद॒घ्नं - चा॑तुर्मा॒स्ये - ष्व॒मुमा॑दि॒त्यं प्र॒त्यक्षे॑ण॒ कम॒ग्निं चि॑नुत - उपानुवा॒क्य॑मा॒शुम॒ग्निं चि॑न्वा॒नो - मि॑थू॒या मि॑थुन॒वान् भ॑व॒त्येकं॑ च)
T.A.1.22.9
पुष्करपर्णैः पुष्करदण्डैः पुष्करैश्च॑ सꣳस्ती॒र्य । तस्मि॑न् विहा॒यसे । अ॒ग्निं प्र॒णीयो॑प-समा॒धाय॑ ॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । कस्मा᳚त् प्रणी॒तेऽय-म॒ग्निश्ची॒यते᳚ । साः प्र॑णी॒तेऽयम॒फ्सु ह्यय॑ञ्ची॒यते᳚ । अ॒सौ भुव॑ने॒ऽप्य-ना॑हिताग्नि-रे॒ताः । तम॒भित॑ ए॒ता अ॒भीष्ट॑का॒ उप॑दधाति ॥ अ॒ग्नि॒हो॒त्रे द॑र्.शपूर्ण-मा॒सयोः᳚ । प॒शु॒ब॒न्धे चा॑तुर्मा॒स्येषु॑
कोर्वै (Index)
(वेद॑ - भव - त्या॒यत॑नं - भवति॒ - वेद॒ - वेद॑ - तिष्ठति - गुल्फद॒घ्नं - चा॑तुर्मा॒स्ये - ष्व॒मुमा॑दि॒त्यं प्र॒त्यक्षे॑ण॒ कम॒ग्निं चि॑नुत - उपानुवा॒क्य॑मा॒शुम॒ग्निं चि॑न्वा॒नो - मि॑थू॒या मि॑थुन॒वान् भ॑व॒त्येकं॑ च)
T.A.1.22.10
अथो॑ आहुः । सर्वे॑षु यज्ञ्क्र॒तुष्विति॑ ॥ ए॒तद्ध॑ स्म॒ वा आ॑हुः शण्डि॒लाः । कम॒ग्निञ्चि॑नुते ॥ स॒त्रि॒य-म॒ग्निञ्चि॑न्वा॒नः । स॒म्ॅव॒थ्स॒रं प्र॒त्यक्षे॑ण ॥ कम॒ग्निञ्चि॑नुते । सा॒वि॒त्र-म॒ग्निञ्चि॑न्वा॒नः । अ॒मुमा॑दि॒त्यं प्र॒त्यक्षे॑ण ॥ कम॒ग्निञ्चि॑नुते
कोर्वै (Index)
(वेद॑ - भव - त्या॒यत॑नं - भवति॒ - वेद॒ - वेद॑ - तिष्ठति - गुल्फद॒घ्नं - चा॑तुर्मा॒स्ये - ष्व॒मुमा॑दि॒त्यं प्र॒त्यक्षे॑ण॒ कम॒ग्निं चि॑नुत - उपानुवा॒क्य॑मा॒शुम॒ग्निं चि॑न्वा॒नो - मि॑थू॒या मि॑थुन॒वान् भ॑व॒त्येकं॑ च)
T.A.1.22.11
ना॒चि॒के॒त-म॒ग्निञ्चि॑न्वा॒नः । प्रा॒णान् प्र॒त्यक्षे॑ण ॥ कम॒ग्निञ्चि॑नुते । चा॒तु॒र्॒.हो॒त्रि॒य-म॒ग्निञ्चि॑न्वा॒नः । ब्रह्म॑ प्र॒त्यक्षे॑ण ॥ कम॒ग्निञ्चि॑नुते । वै॒श्व॒सृ॒ज-म॒ग्निञ्चि॑न्वा॒नः । शरी॑रं प्र॒त्यक्षे॑ण ॥ कम॒ग्निञ्चि॑नुते । उ॒पा॒नु॒वा॒क्य॑मा॒शु-म॒ग्निञ्चि॑न्वा॒नः
कोर्वै (Index)
(वेद॑ - भव - त्या॒यत॑नं - भवति॒ - वेद॒ - वेद॑ - तिष्ठति - गुल्फद॒घ्नं - चा॑तुर्मा॒स्ये - ष्व॒मुमा॑दि॒त्यं प्र॒त्यक्षे॑ण॒ कम॒ग्निं चि॑नुत - उपानुवा॒क्य॑मा॒शुम॒ग्निं चि॑न्वा॒नो - मि॑थू॒या मि॑थुन॒वान् भ॑व॒त्येकं॑ च)
T.A.1.22.12
इ॒मान् ॅलो॒कान् प्र॒त्यक्षे॑ण ॥ कम॒ग्निञ्चि॑नुते । इ॒ममा॑रुण-केतुक-म॒ग्निञ्चि॑न्वा॒न इति॑ । य ए॒वासौ । इ॒तश्चा॒-मुत॑श्चा-व्यतीपा॒ती । तमिति॑ ॥ यो᳚ऽग्नेर्मि॑थू॒या वेद॑ । मि॒थु॒न॒वान् भ॑वति । आपो॒ वा अ॒ग्नेर्मि॑थू॒याः । मि॒थु॒न॒वान् भ॑वति ( ) । य ए॒वं ॅवेद॑ ।