TA 1.11

8 पञ्चाशत्

T.A.1.11.1
प॒वित्र॑वन्तः॒ परि॒वाज॒मास॑ते । पि॒तैषां᳚ प्र॒त्नो अ॒भिर॑क्षति व्र॒तं । म॒हस्स॑मु॒द्रं ॅवरु॑ण स्ति॒रोद॑धे । धीरा॑ इच्छेकु॒र्द्धरु॑णेष्वा॒रभं᳚ ॥ प॒वित्रं॑ ते॒ वित॑तं॒ ब्रह्म॑ण॒स्पते᳚ । प्रभु॒र्गात्रा॑णि॒ पर्ये॑षि वि॒श्वतः॑ । अत॑प्ततनू॒र् न तदा॒मो अ॑श्नुते । श्रृ॒तास॒ इद्वह॑न्-त॒स्तथ् समा॑शत ॥ “ब्र॒ह्मा दे॒वानां᳚{1}” ॥ अस॑तः स॒द्ये तत॑क्षुः
कोर्वै (Index)
(तत॑क्षुर् - धीमहि - ना॒म मे॑ - चिकेत - गी॒तं - प्रत्य॑मुञ्चद् - व्य॒थते - +स॒प्त च॑)
T.A.1.11.2
ऋष॑यः स॒प्तात्रि॑श्च॒ यत् । सर्वेऽत्रयो अ॑गस्त्य॒श्च । नक्ष॑त्रैः॒ शङ्कृ॑तो ऽवसन्न् ॥ अथ॑ सवितुः॒ श्यावाश्व॒स्या ऽवर्त्ति॑कामस्य ॥ अ॒मी य ऋक्षा॒ निहि॑ता स उ॒च्चा । नक्तं॒ ददृ॑श्रे॒ कुह॑चि॒द्दिवे॑युः । अद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ । वि॒चा॒कश॑-च्च॒न्द्रमा॒ नक्ष॑त्रमेति ॥ तथ् स॑वि॒तुर् वरे᳚ण्यं । भर्गो॑ दे॒वस्य॑ धीमहि
कोर्वै (Index)
(तत॑क्षुर् - धीमहि - ना॒म मे॑ - चिकेत - गी॒तं - प्रत्य॑मुञ्चद् - व्य॒थते - +स॒प्त च॑)
T.A.1.11.3
धियो॒ यो नः॑ प्रचो॒दया᳚त् ॥ तथ्स॑वि॒तुर् वृ॑णीमहे । व॒यं दे॒वस्य॒ भोज॑नं । श्रेष्ठꣳ॑ सर्व॒धात॑मं । तुरं॒ भग॑स्य धीमहि ॥ अपा॑गूहत सविता॒ तृभीन्॑ । सर्वा᳚न् दि॒वो अन्ध॑सः । नक्त॑006छ्;॒तान्य॑भवन् दृ॒शे । अस्थ्य॒स्थ्ना संभ॑विष्यामः ॥ नाम॒ नामै॒व ना॒म मे᳚
कोर्वै (Index)
(तत॑क्षुर् - धीमहि - ना॒म मे॑ - चिकेत - गी॒तं - प्रत्य॑मुञ्चद् - व्य॒थते - +स॒प्त च॑)
T.A.1.11.4
नपुꣳस॑कं॒ पुमाꣳ॒॒स्त्र्य॑स्मि । स्थाव॑रोऽस्म्यथ॒ जङ्ग॑मः । य॒जेऽयक्षि॒ यष्टा॒हे च॑ ॥ मया॑ भू॒तान्य॑यक्षत । प॒शवो॑ मम॑ भूता॒नि । अनूबन्ध्यो ऽस्म्य॑हं ॅवि॒भुः ॥ स्त्रियः॑ स॒तीः । ता उ॑ मे पुꣳ॒॒स आ॑हुः । पश्य॑दक्ष॒ण्वान्न-विचे॑तद॒न्धः । क॒विर्यः पु॒त्रः स इ॒मा चि॑केत
कोर्वै (Index)
(तत॑क्षुर् - धीमहि - ना॒म मे॑ - चिकेत - गी॒तं - प्रत्य॑मुञ्चद् - व्य॒थते - +स॒प्त च॑)
T.A.1.11.5
यस्ता वि॑जा॒नाथ् स॑वि॒तुः पि॒ताऽस॑त् ॥ अ॒न्धो मणिम॑विन्दत् । तम॑नङ्गुलि॒-राव॑यत् । अ॒ग्री॒वः प्रत्य॑मुञ्चत् । तमजि॑ह्व अ॒सश्च॑त ॥ ऊर्द्ध्वमूल-म॑वाक्छा॒खं । वृ॒क्षं ॅया॑ वेद॒ संप्र॑ति । न स जातु जनः॑ श्रद्द॒द्ध्यात् । मृ॒त्युर्मा॑ मार॒यादि॑तिः ॥ हसितꣳ रुदि॑तङ्गी॒तं
कोर्वै (Index)
(तत॑क्षुर् - धीमहि - ना॒म मे॑ - चिकेत - गी॒तं - प्रत्य॑मुञ्चद् - व्य॒थते - +स॒प्त च॑)
T.A.1.11.6
वीणा॑ पण व॒लासि॑तं । मृ॒तञ्जी॒वञ्च॑ यत्कि॒ञ्चित् । अ॒ङ्गानि॑ स्नेव॒ विद्धि॑ तत् ॥ अतृ॑ष्यꣳ॒॒स्तृष्य॑ ध्यायत् । अ॒स्माज्जा॒ता मे॑ मिथू॒ चरन्न्॑ । पुत्रो निर्.ऋत्या॑ वैदे॒हः । अ॒चेता॑ यश्च॒ चेत॑नः ॥ स॒ तं मणिम॑विन्दत् । सो॑ऽनङ्गुलि॒राव॑यत् । सो॒ऽग्री॒वः प्रत्य॑मुन्चत्
कोर्वै (Index)
(तत॑क्षुर् - धीमहि - ना॒म मे॑ - चिकेत - गी॒तं - प्रत्य॑मुञ्चद् - व्य॒थते - +स॒प्त च॑)
T.A.1.11.7
सोऽजि॑ह्वो अ॒सश्च॑त ॥ नैतमृषिं ॅविदित्वा नग॑रं प्र॒विशेत् । य॑दि प्र॒विशेत् । मि॒थौ चरि॑त्वा प्र॒विशेत् । तथ्संभव॑स्य व्र॒तं ॥ आ॒ तम॑ग्ने र॒थन्ति॑ष्ठ । एका᳚श्वमेक॒ योज॑नं । एकचक्र॑-मेक॒धुरं । वा॒त ध्रा॑जि ग॒तिं ॅवि॑भो ॥ न॒ रि॒ष्यति॑ न व्य॒थते ( )
कोर्वै (Index)
(तत॑क्षुर् - धीमहि - ना॒म मे॑ - चिकेत - गी॒तं - प्रत्य॑मुञ्चद् - व्य॒थते - +स॒प्त च॑)
T.A.1.11.8
ना॒स्याक्षो॑ यातु॒ सज्ज॑ति । यच्छ्वेता᳚न् रोहि॑ताꣳश्चा॒ग्नेः । र॒थे यु॑क्त्वाऽधि॒तिष्ठ॑ति ॥ एकया च दशभिश्च॑ स्वभू॒ते । द्वाभ्या मिष्टये विꣳ॑शत्या॒ च । तिसृभिश्च वहसे त्रिꣳ॑शता॒ च । नियुद्भिर्-वायविह ता॑ विमु॒ञ्च ।
कोर्वै (Index)
(तत॑क्षुर् - धीमहि - ना॒म मे॑ - चिकेत - गी॒तं - प्रत्य॑मुञ्चद् - व्य॒थते - +स॒प्त च॑)