TA 1.6

3 पञ्चाशत्

T.A.1.6.1
अ॒त्यू॒र्द्ध्वा॒क्षोऽति॑रश्चात् । शिशि॑रः प्र॒दृश्य॑ते । नैव रूपं न॑ वासाꣳ॒॒सि । न चक्षुः॑ प्रति॒दृश्य॑ते ॥ अ॒न्योन्यं॒ तु न॑ हिꣳस्रा॒तः । स॒त स्त॑द् देव॒लक्ष॑णं । लोहितोऽक्ष्णि शा॑रशी॒र्ष्णिः । सू॒र्यस्यो॑दय॒नं प्र॑ति ॥ त्वं करोषि॑ न्यञ्ज॒लिकां । त्वं॒ करो॑षि नि॒जानु॑कां
कोर्वै (Index)
(नि॒जानु॑कां॒ - भव॑ति - द्रुह्या॒तां पञ्च॑ च)
T.A.1.6.2
निजानुकामे᳚ न्यञ्ज॒लिका । अमी वाच-मुपास॑तामि॒ति ॥ तस्मै सर्व ऋतवो॑ नम॒न्ते । मर्यादा करत्वात् प्र॑पुरो॒धां । ब्राह्मण॑ आप्नो॒ति । य ए॑वं ॅवे॒द । स खलु सम्ॅवथ्सर एतैः सेनानी॑भिः स॒ह । इन्द्राय सर्वान्-कामान॑भिव॒हति । स द्र॒॒फ्सः । तस्यै॒षा भव॑ति ।
कोर्वै (Index)
(नि॒जानु॑कां॒ - भव॑ति - द्रुह्या॒तां पञ्च॑ च)
T.A.1.6.3
अव॑ द्र॒फ्सो अꣳ॑श॒मती॑मतिष्ठत् । इ॒या॒नः कृ॒ष्णो द॒शभिः॑ स॒हस्रैः᳚ । आव॒र्त-मिन्द्रः॒ शच्या॒ धम॑न्तं । उपस्नुहि तं नृमणा-मथ॑द्रामि॒ति ॥ एतयै वेन्द्रः सला वृ॑क्या स॒ह । असुरान् प॑रिवृ॒श्चति । पृथि॑व्यꣳ॒॒ शुम॑ती । ताम॒न्व-व॑स्थितः सम्ॅवथ्स॒रो दि॒वञ्च॑ । नैवं ॅविदुषा-ऽऽचार्या᳚न् तेवा॒सिनौ । अन्योन्यस्मै᳚ द्रुह्या॒तां ( ) । यो द्रु॒ह्यति । भ्रश्यते स्व॑र्गाल् लो॒कात् । इत्यतु म॑ण्डला॒नि । सूर्य मण्डला᳚ न्याख्या॒यिकाः । अत ऊर्द्ध्वꣳस॑निर्व॒चनाः ।
कोर्वै (Index)
(नि॒जानु॑कां॒ - भव॑ति - द्रुह्या॒तां पञ्च॑ च)