अ॒ग्निं प्र॒णीयो॑प-समा॒धाय॑ । तम॒भित॑ ए॒ता अ॒भीष्ट॑का॒ उप॑दधाति । अ॒ग्नि॒हो॒त्रे द॑र्.शपूर्ण-मा॒सयोः᳚ । प॒शु॒ब॒न्धे चा॑तुर्मा॒स्येषु॑ । अथो॑ आहुः । सर्वे॑षु यज्ञ्क्र॒तुष्विति॑ ॥ अथ॑ हस्मा हारु॒णः स्वा॑य॒म्भुवः॑ । सा॒वि॒त्रः सर्वो॒ऽग्नि-रित्यन॑नुषङ्गं मन्यामहे । नाना॒ वा ए॒तेषां᳚ ॅवी॒र्या॑णि ॥ कम॒ग्निञ्चि॑नुते
कोर्वै (Index)
(चि॒नु॒ते॒ - चि॒नु॒ते॒ - प्र॒जाका॑मश्चिन्वीत॒ - य ए॒वं ॅवेदा - पो॑ - धावे॒ - दश्नी॑याच्च॒त्वारि॑ च)