TA 1.29

1 पञ्चाशत्

T.A.1.29.1
प॒र्जन्या॑य॒ प्रगा॑यत । दि॒वस्पु॒त्राय॑ मी॒ढुषे᳚ । स नो॑ य॒वस॑मिच्छतु ॥ इ॒दं ॅवचः॑ प॒र्जन्या॑य स्व॒राजे᳚ । हृ॒दो अ॒स्त्वन्त॑र॒न्त-द्यु॑योत । म॒यो॒भूर्वातो॑ वि॒श्वकृ॑ष्टयः सन्त्व॒स्मे । सु॒पि॒प्प॒ला ओष॑धीर् दे॒वगो॑पाः ॥ यो गर्भ॒-मोष॑धीनां । गवा᳚ङ्कृ॒णोत्यर्व॑तां । प॒र्जन्यः॑ पुरु॒षीणां᳚ ।
कोर्वै (Index)
(प॒र्जन्या॑य॒ दश॑)