क्वेदमभ्रं॑ निवि॒शते । क्वायꣳ॑ सम्ॅवथ्स॒रो मि॑थः । क्वाहः क्वेयन् दे॑व रा॒त्री । क्व मासा ऋ॑तवः॒ श्रिताः ॥ अर्द्धमासा॑ मुहू॒र्ताः । निमेषास्तु॑टिभिः॒ (निमेषास्त्र॑टिभिः॒) सह । क्वेमा आपो नि॑विश॒न्ते । य॒दीतो॑ यान्ति॒ संप्र॑ति ॥ काला अफ्सु नि॑विश॒न्ते । आ॒पः सूर्ये॑ स॒माहि॑ताः
कोर्वै (Index)
(स॒माहि॑ता - दश॒स्ये॑ - उत्त॑म॒-मुच्य॑ते-गृहान्-थ्स्व॒कर्म॑भिः-पू॒र्व्या॑ रुह॑-इ॒ति)