आप॑मापाम॒पः सर्वाः᳚ । अ॒स्मा-द॒स्मादि॒तोऽमुतः॑ । अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च । स॒ह स॑ञ्चस्क॒रर्द्धि॑या ॥ वा॒य्वश्वा॑ रश्मि॒ पत॑यः । मरी᳚च्यात्मानो॒ अद्रु॑हः । दे॒वी र्भु॑वन॒ सूव॑रीः । पु॒त्र॒व॒त्त्वाय॑ मे सुत ॥ महानाम्नीर्-म॑हामा॒नाः । म॒ह॒सो म॑हस॒स्स्वः॑
कोर्वै (Index)
ꣳ स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ ॅयदायुः॑ ॥ स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्-दधातु ॥ के॒तवो॒ अरु॑णासश्च । ऋ॒ष॒यो वात॑रश॒नाः( ) । प्र॒ति॒ष्ठाꣳ श॒तधा॑ हि । स॒माहि॑तासो सहस्र॒धाय॑सं ॥ शि॒वा नः॒ शन्त॑मा भवन्तु । दि॒व्या आप॒ ओष॑धयः ॥ सु॒मृ॒डी॒का सर॑स्वति । माते॒ व्यो॑म स॒न्दृशि॑ ॥ 77 (16) (स्व॑ - रु॒दीष॑त॒ - वात॑रश॒नाः षट्च॑)