अति॑ ता॒म्राणि॑ वासाꣳ॒॒सि । अ॒ष्टिव॑ज्रि श॒तघ्नि॑ च । विश्वे देवा विप्र॑हर॒न्ति । अ॒ग्निजि॑ह्व अ॒सश्च॑त ॥ नैव देवो॑ न म॒र्त्यः । न राजा व॑रुणो॒ विभुः । नाग्निर् नेन्द्रो न प॑वमा॒नः । मा॒तृक्क॑च्च न॒ विद्य॑ते ॥ दि॒व्यस्यैका॒ धनु॑रार्त्निः । पृ॒थि॒व्यामप॑रा श्रि॒ता
कोर्वै (Index)
(श्रि॒ता - यज॑ते॒ त्रीणि॑ च)