TA 1.2

4 पञ्चाशत्

T.A.1.2.1
स्मृतिः॑ प्र॒त्यक्ष॑-मैति॒ह्यं᳚ । अनु॑मान-श्चतुष्ट॒यं । ए॒तैरादि॑त्य मण्डलं । सर्वै॑रेव॒ विधा᳚स्यते ॥ सूर्यो॒ मरी॑चि॒माद॑त्ते । सर्वस्मा᳚द् भुव॑नाद॒धि । तस्याः पाक वि॑शेषे॒ण । स्मृ॒तं का॑ल वि॒शेष॑णं ॥ न॒दीव॒ प्रभ॑वात् का॒चित् । अ॒क्षय्या᳚थ् स्यन्द॒ते य॑था
कोर्वै (Index)
(य॒था॒ - ल॒क्ष॒ण - ऋ॑तु॒लक्ष॑णं॒ - भुव॑नꣳ स॒प्त च॑)
T.A.1.2.2
तान्नद्योऽभि स॑माय॒न्ति । सो॒रुः सती॑ न नि॒वर्त॑ते ॥ ए॒वन्ना॒ना स॑मुत्था॒नाः । का॒लाः स॑म्ॅवथ्स॒रꣳ श्रि॑ताः । अणुशश्च म॑हश॒श्च । सर्वे॑ समव॒यन्त्रि॑ तं ॥ स तैः᳚ स॒र्वैः स॑मावि॒ष्टः । ऊ॒रुः स॑न्न नि॒वर्त॑ते । अधि सम्ॅवथ्स॑रं ॅवि॒द्यात् । तदेव॑ लक्ष॒णे ।
कोर्वै (Index)
(य॒था॒ - ल॒क्ष॒ण - ऋ॑तु॒लक्ष॑णं॒ - भुव॑नꣳ स॒प्त च॑)
T.A.1.2.3
अणुभिश्च म॑हद्भि॒श्च । स॒मारू॑ढः प्र॒दृश्य॑ते । सम्ॅवथ्सरः प्र॑त्यक्षे॒ण । ना॒धिस॑त्त्वः प्र॒दृश्य॑ते ॥ प॒टरो॑ विक्लि॑धः पि॒ङ्गः । ए॒तद् व॑रुण॒ लक्ष॑णं । यत्रैत॑-दुप॒दृश्य॑ते । स॒हस्रं॑ तत्र॒ नीय॑ते ॥ एकꣳ हि शिरो ना॑ना मु॒खे । कृ॒थ्स्नं त॑दृत॒ लक्ष॑णं
कोर्वै (Index)
(य॒था॒ - ल॒क्ष॒ण - ऋ॑तु॒लक्ष॑णं॒ - भुव॑नꣳ स॒प्त च॑)
T.A.1.2.4
उभयतः सप्ते᳚न्द्रिया॒णि । ज॒ल्पितं॑ त्वेव॒ दिह्य॑ते ॥ शुक्लकृष्णे सम्ॅव॑थ्सर॒स्य । दक्षिण वाम॑योः पा॒र्श्वयोः । तस्यै॒षा भव॑ति ॥ शु॒क्रं ते॑ अ॒न्यद्य॑ज॒तं ते॑ अ॒न्यत् । विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि । विश्वा॒ हि मा॒या अव॑सि स्वधावः । भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॒स्त्विति॑ ॥ नात्र॒ भुव॑नं ( ) । न पू॒षा । न प॒शवः॑ । नादित्यः सम्ॅवथ्सर एव प्रत्यक्षेण प्रियत॑मं ॅवि॒द्यात् । एतद्वै सम्ॅवथ्सरस्य प्रियत॑मꣳ रू॒पं । योऽस्य महानर्थ उत्पथ्स्यमा॑नो भ॒वति । इदं पुण्यं कु॑रुष्वे॒ति । तमाहर॑णं द॒द्यात् ।
कोर्वै (Index)
(य॒था॒ - ल॒क्ष॒ण - ऋ॑तु॒लक्ष॑णं॒ - भुव॑नꣳ स॒प्त च॑)