TA 1.18

1 पञ्चाशत्

T.A.1.18.1
अथाग्ने॑रष्ट पु॑रुष॒स्य ॥ अग्नेः पूर्व-दिश्यस्य स्थाने स्वतेज॑सा भा॒नि । जातवेदस उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि । सहोजसो दक्षिण-दिश्यस्य स्थाने स्वतेज॑सा भा॒नि । अजिराप्रभव उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि । वैश्वानरस्यापरदिश्यस्य स्थाने स्वतेज॑सा भा॒नि । नर्यापस उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि । पङ्क्तिराधस उदग्दिश्यस्य स्थाने स्वतेज॑सा भा॒नि । विसर्पिण उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि । ओउम् भूर्भुव॒स्स्वः॑( ) । दिशो वो मिथुनं मा नो मिथु॑नꣳ री॒ढ्वं ।
कोर्वै (Index)
(स्व॑रेक॑म् च)