TA 1.3

4 पञ्चाशत्

T.A.1.3.1
सा॒क॒ञ्जानाꣳ॑ स॒प्तथ॑माहु-रेक॒जं । षडु॑द्य॒मा ऋष॑यो देव॒जा इति॑ । तेषा॑मि॒ष्टानि॒ विहि॑तानि धाम॒शः । स्था॒त्रे रे॑जन्ते॒ विकृ॑तानि रूप॒शः ॥ कोनु॑ मर्या॒ अमि॑थितः । सखा॒ सखा॑यमब्रवीत् । जहा॑को अ॒स्मदी॑षते ॥ यस्ति॒त्याज॑ सखि॒विदꣳ॒॒ सखा॑यं । न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति । यदीꣳ॑ शृ॒णोत्य॒लकꣳ॑ शृणोति
कोर्वै (Index)
(शृ॒णो॒ - त्य॒न्यान्थ् - स॒र्वा - मे॒व षट्च॑)
T.A.1.3.2
न हि प्र॒वेद॑ सुकृ॒तस्य॒ पन्था॒मिति॑ ॥ ऋ॒तुर्. ऋ॑तुना नु॒द्यमा॑नः । विन॑नादा॒भिधा॑वः । षष्टिश्च त्रिꣳश॑का व॒ल्गाः । शु॒क्लकृ॑ष्णौ च॒ षाष्टि॑कौ ॥ सा॒रा॒ग॒व॒स्त्रैर्-ज॒रद॑क्षः । व॒स॒न्तो वसु॑भिः स॒ह । स॒म्ॅव॒थ्स॒रस्य॑ सवि॒तुः । प्रै॒ष॒कृत् प्र॑थ॒मः स्मृ॑तः ॥ अ॒मूना॒दय॑-तेत्य॒न्यान्
कोर्वै (Index)
(शृ॒णो॒ - त्य॒न्यान्थ् - स॒र्वा - मे॒व षट्च॑)
T.A.1.3.3
अ॒मूꣳश्च॑ परि॒रक्ष॑तः । ए॒ता वा॒चः प्र॑युज्य॒न्ते । यत्रै त॑दुप॒दृश्य॑ते ॥ ए॒तदे॒व वि॑जानी॒यात् । प्र॒माणं॑ काल॒पर्य॑ये । वि॒शे॒ष॒णं तु॑ वक्ष्या॒मः । ऋ॒तूनां᳚ तन्नि॒बोध॑त ॥ शुक्लवासा॑ रुद्र॒गणः । ग्री॒ष्मेणा॑वर्त॒ते स॑ह । नि॒जह॑न् पृथि॑वीꣳ स॒र्वां
कोर्वै (Index)
(शृ॒णो॒ - त्य॒न्यान्थ् - स॒र्वा - मे॒व षट्च॑)
T.A.1.3.4
ज्यो॒तिषा᳚ ऽप्रति॒ख्येन॑ सः ॥ वि॒श्व॒रू॒पाणि॑ वासाꣳ॒॒सि । आ॒दि॒त्यानां᳚ नि॒बोध॑त । सम्ॅवथ्सरीणं॑ कर्म॒फलं । वर्.षाभिर् द॑दताꣳ॒॒ सह ॥ अदुःखो॑ दुःख च॑क्षुरि॒व । तद्मा॑ पीत इव॒ दृश्य॑ते । शीतेना᳚ व्यथ॑यन्नि॒व । रु॒रुद॑क्ष इव॒ दृश्य॑ते ॥ ह्लादयते᳚ ज्वल॑तश्चै॒व ( ) । शा॒म्यत॑श्चास्य॒ चक्षु॑षी । यावै प्रजा भ्रꣳ॑श्य॒न्ते । सम्ॅवथ्सरात्ता भ्रꣳ॑श्य॒न्ते ॥ याः॒ प्रति॑तिष्ठ॒न्ति । संॅवथ्सरे ताः प्रति॑तिष्ठ॒न्ति । व॒॒र्॒.षाभ्य॑ इत्य॒र्थः ।
कोर्वै (Index)
(शृ॒णो॒ - त्य॒न्यान्थ् - स॒र्वा - मे॒व षट्च॑)