विशी᳚र्ष्णीं॒ गृद्ध्र॑-शीर्ष्णीञ्च । अपेतो॑ निर्.ऋ॒तिꣳ ह॑थः । परिबाधꣳ श्वे॑तकु॒क्षं । नि॒जङ्घꣳ॑ शब॒लोद॑रं ॥ स॒ तान्. वा॒च्याय॑या स॒ह । अग्ने॒ नाश॑य स॒न्दृशः॑ । ई॒र्ष्या॒सू॒ये बु॑भु॒क्षां । म॒न्युं कृ॒त्यां च॑ दीधिरे । रथे॑न किꣳशु॒काव॑ता । अग्ने॒ नाश॑य स॒न्दृशः॑ ।
कोर्वै (Index)
(विशी᳚र्ष्णीं॒ दश॑)