अ॒द्भय-स्तिरो॒धा जा॑यत । तव॑ वैश्रव॒णः स॑दा । तिरो॑ धेहि सप॒त्नान्नः॑ । ये अपो॒ऽश्नन्ति॑ केच॒न ॥ त्वा॒ष्ट्रीं मा॒यां ॅव᳚श्रव॒णः । रथꣳ॑ सहस्र॒ वन्धु॑रं । पु॒रु॒श्च॒क्रꣳ सह॑स्राश्वं । आस्था॒ याया॑हि नो ब॒लिं ॥ यस्मै॑ भू॒तानि॑ ब॒लिमाव॑हन्ति । धन॒ङ्गावो॒ हस्ति॒ हिर॑ण्य॒मश्वान्॑
कोर्वै (Index)
(अश्वा᳚न्-बलि॒र्-भुवो॑ - भवे॒युः - श्रित - श्च॑ स॒प्त च॑)