इ॒न्द्र॒ घो॒षा वो॒ वसु॑भिः पु॒रस्ता॒-दुप॑दधतां । मनो॑जवसो वः पि॒तृभि॑र् दक्षिण॒त उप॑दधतां । प्रचे॑ता वो रु॒द्रैः प॒श्चा-दुप॑दधतां । वि॒श्वक॑र्मा व आदि॒त्यै-रु॑त्तर॒त उप॑दधतां । त्वष्टा॑ वो रू॒पै-रु॒परि॑ष्टा॒-दुप॑दधतां । संज्ञानं ॅवः प॑श्चादि॒ति ॥ आ॒दि॒त्यः सर्वो॒ऽग्निः पृ॑थि॒व्यां । वा॒युर॒न्तरि॑क्षे । सूर्यो॑ दि॒वि । च॒न्द्रमा॑ दि॒क्षु ( ) । नक्ष॑त्राणि॒ स्वलो॒के ॥ ए॒वा ह्ये॑व । ए॒वा ह्य॑ग्ने । ए॒वा हि वा॑यो । ए॒वा ही᳚न्द्र । ए॒वा हि पू॑षन्न् । ए॒वा हि दे॑वाः ।
कोर्वै (Index)
(दि॒क्षु स॒प्त च॑)