TA 1.9

7 पञ्चाशत्

T.A.1.9.1
अग्निश्च जात॑वेदा॒श्च । सहोजा अ॑जिरा॒प्रभुः । वैश्वानरो न॑र्यापा॒श्च । प॒ङ्क्तिरा॑धाश्च॒ सप्त॑मः । विसर्पे वाष्ट॑मोऽग्नी॒नां । एतेऽष्टौ वसवः क्षि॑ता इ॒ति ॥ यथर्त्वे-वाग्ने-रर्चिर्वर्ण॑ विशे॒षाः । नीलार्चिश्च पीतका᳚र्चिश्चे॒ति ॥ अथ वायो-रेकादश-पुरुषस्यैकादश॑स्त्रीक॒स्य ॥ प्रभ्राजमाना व्य॑वदा॒ताः
कोर्वै (Index)
(व्य॒व॒दा॒ता - ह॒न्ति - ग॑र॒गिर - स्त॒पस - उद॑कं - तृप्तास॒ - श्वतु॑ष्पद॒ एकं॑ च)
T.A.1.9.2
याश्च वासु॑कि वै॒द्युताः । रजताः परु॑षाः श्या॒माः । कपिला अ॑तिलो॒हिताः । ऊर्द्ध्वा अवप॑तन्ता॒श्च । वैद्युत इ॑त्येका॒दश ॥ नैनं ॅवैद्युतो॑ हिन॒स्ति । य ए॑वं ॅवे॒द ॥ स होवाच व्यासः पा॑राश॒र्यः । विद्युद्वधमेवाहं मृत्युमै᳚च्छमि॒ति ॥ न त्वका॑मꣳ ह॒न्ति
कोर्वै (Index)
(व्य॒व॒दा॒ता - ह॒न्ति - ग॑र॒गिर - स्त॒पस - उद॑कं - तृप्तास॒ - श्वतु॑ष्पद॒ एकं॑ च)
T.A.1.9.3
य ए॑वं ॅवे॒द ॥ अथ ग॑न्धर्व॒गणाः । स्वान॒ भ्राट् । अङ्घा॑रि॒र् बंभा॑रिः । हस्तः॒ सुह॑स्तः । कृशा॑नुर् वि॒श्वाव॑सुः । मूर्द्धन्वान्थ्-सू᳚र्यव॒र्चाः । कृतिरित्येकादश ग॑न्धर्व॒गणाः ॥ देवाश्च म॑हादे॒वाः । रश्मयश्च देवा॑ गर॒गिरः ।
कोर्वै (Index)
(व्य॒व॒दा॒ता - ह॒न्ति - ग॑र॒गिर - स्त॒पस - उद॑कं - तृप्तास॒ - श्वतु॑ष्पद॒ एकं॑ च)
T.A.1.9.4
नैनं गरो॑ हिन॒स्ति । य ए॑वं ॅवे॒द ॥ गौ॒री मि॑माय सलि॒लानि॒ तक्ष॑ती । एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी । अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी᳚ । सहस्राक्षरा परमे व्यो॑मन्नि॒ति ॥ वाचो॑ विशे॒षणं ॥ अथ निगद॑व्याख्या॒ताः । ताननुक्र॑मिष्या॒मः ॥ व॒राहवः॑-स्वत॒पसः
कोर्वै (Index)
(व्य॒व॒दा॒ता - ह॒न्ति - ग॑र॒गिर - स्त॒पस - उद॑कं - तृप्तास॒ - श्वतु॑ष्पद॒ एकं॑ च)
T.A.1.9.5
वि॒द्युन् म॑हसो॒ धूप॑यः । श्वापयो गृहमेधा᳚श्चेत्ये॒ते । ये॒ चेमेऽशि॑मिवि॒द्विषः ॥ पर्जन्याः सप्त पृथिवीमभिव॑र्.ष॒न्ति । वृष्टि॑भिरि॒ति । एतयैव विभक्ति वि॑परी॒ताः । स॒प्तभि॒र्वातै॑ रुदी॒रिताः । अमूं ॅलोका-नभिव॑र्.ष॒न्ति । तेषा॑मेषा॒ भव॑ति ॥ स॒मा॒न-मे॒तदुद॑कं
कोर्वै (Index)
(व्य॒व॒दा॒ता - ह॒न्ति - ग॑र॒गिर - स्त॒पस - उद॑कं - तृप्तास॒ - श्वतु॑ष्पद॒ एकं॑ च)
T.A.1.9.6
उ॒च्चैत्य॑व॒ चाह॑भिः । भूमिं॑ प॒र्जन्या॒ जिन्व॑न्ति । दिवं जिन्वन्-त्यग्न॑य इ॒ति ॥ यदक्ष॑रं भू॒तकृ॑तं । विश्वे॑ देवा उ॒पास॑ते । म॒हर्.षि॑मस्य गो॒प्तारं᳚ । ज॒मद॑ग्नि॒-मकु॑र्वत ॥ ज॒मद॑ग्नि॒-राप्या॑यते । छन्दो॑भि-श्चतुरुत्त॒रैः । राज्ञ्ः॒ सोम॑स्य तृ॒प्तासः॑
कोर्वै (Index)
(व्य॒व॒दा॒ता - ह॒न्ति - ग॑र॒गिर - स्त॒पस - उद॑कं - तृप्तास॒ - श्वतु॑ष्पद॒ एकं॑ च)
T.A.1.9.7
ब्रह्म॑णा वी॒र्या॑वता । शि॒वा नः॑ प्र॒दिशो॒ दिशः॑ ॥ तच्छ॒ॅय्योरा वृ॑णीमहे । गा॒तुं ॅय॒ज्ञाय॑ । गा॒तुं ॅय॒ज्ञ्प॑तये । दैवी᳚ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर् मानु॑षेभ्यः । ऊ॒र्द्ध्वं जि॑गातु भेष॒जं । शन्नो॑ अस्तु द्वि॒पदे᳚ । शञ्चतु॑ष्पदे ( ) ॥ सोमपा(3) असोमपा(3) इति निगद॑व्याख्या॒ताः ।
कोर्वै (Index)
(व्य॒व॒दा॒ता - ह॒न्ति - ग॑र॒गिर - स्त॒पस - उद॑कं - तृप्तास॒ - श्वतु॑ष्पद॒ एकं॑ च)