TA 1.4

3 पञ्चाशत्

T.A.1.4.1
अक्षि॑दुः॒खोत्थि॑तस्यै॒व । वि॒प्रस॑न्ने क॒नीनि॑के । आङ्क्ते चाद्ग॑णं ना॒स्ति । ऋ॒भूणां᳚ तन्नि॒बोध॑त ॥ क॒न॒का॒भानि॑ वासाꣳ॒॒सि । अ॒हता॑नि नि॒बोध॑त । अन्नमश्र्नीत॑ मृज्मी॒त । अ॒हं ॅवो॑ जीव॒नप्र॑दः ॥ ए॒ता वा॒चः प्र॑युज्य॒न्ते । श॒रद्य॑त्रोप॒ दृश्य॑ते
कोर्वै (Index)
(दृश्य॑त - इ॒वा - वृ॑णे)
T.A.1.4.2
अभिधून्वन्तो-ऽभिघ्न॑न्त इ॒व । वा॒तव॑न्तो म॒रुद्ग॑णाः ॥ अमुतो जेतुमिषुमु॑खमि॒व । सन्नद्धाः सह द॑दृशे॒ ह । अपद्ध्वस्तैर्-वस्तिव॑र्णैरि॒व । वि॒शि॒खासः॑ कप॒र्दिनः ॥ अक्रुद्धस्य योथ्स्य॑मान॒स्य । कृ॒द्धस्ये॑व॒ लोहि॑नी । हेमतश्चक्षु॑षी वि॒द्यात् । अ॒क्ष्णयोः᳚ क्षिप॒णोरि॑व ।
कोर्वै (Index)
(दृश्य॑त - इ॒वा - वृ॑णे)
T.A.1.4.3
दुर्भिक्षं देव॑लोके॒षु । म॒नूना॑मुद॒कं गृ॑हे । ए॒ता वा॒चः प्र॑वद॒न्तीः । वै॒द्युतो॑ यान्ति॒ शैशि॑रीः ॥ ता अ॒ग्निः पव॑माना॒ अन्वै᳚क्षत । इ॒ह जी॑वि॒काम-प॑रिपश्यन्न् । तस्यै॒षा भव॑ति ॥ इ॒हेह वः॑ स्वत॒पसः । मरु॑तः॒ सूर्य॑त्वचः । शर्म॑ स॒प्रथा॒ आवृ॑णे ( ) ।
कोर्वै (Index)
(दृश्य॑त - इ॒वा - वृ॑णे)