पुन॑र्मामैत्विन्द्रि॒यं । पुन॒रायुः॒ पुन॒र्भगः॑ । पुन॒र् ब्राह्म॑ण-मैतु मा । पुन॒र् द्रवि॑ण मैतु मा ॥ यन्मे॒ऽद्य रेतः॑ पृथि॒वीमस्कान्॑ । यदोष॑धीर॒प्यस॑र॒द्-यदापः॑ । इ॒दन्तत् पुन॒राद॑दे । दी॒र्घा॒यु॒त्वाय॒ वर्च॑से ॥ यन्मे॒ रेतः॒ प्रसि॑च्यते । यन्म॒ आजा॑यते॒ पुनः॑( ) । तेन॑ माम॒मृतं॑ कुरु । तेन॑ सुप्र॒जस॑ङ्कुरु ।
कोर्वै (Index)
(पुन॒र्द्वे च॑)