TA 1.32

3 पञ्चाशत्

T.A.1.32.1
सम्ॅवथ्सरमेत॑द् व्रत॒ञ्चरेत् । द्वौ॑ वा मा॒सौ ॥ नियमः स॑मासे॒न ॥ तस्मिन् नियम॑ विशे॒षाः । त्रिषवण-मुदको॑पस्प॒र्॒.शी । चतुर्थ कालपान॑भक्तः॒ स्यात् । अहरहर्वा भैक्ष॑मश्न॒यात् । औदुम्बरीभिः समिद्भि-रग्निं॑ परि॒चरेत् । पुनर्मा मैत्विन्द्रिय-मित्येतेना-ऽनु॑वाके॒न । उद्धृत परिपूताभिरद्भिः कार्यं॑ कुर्वी॒त
कोर्वै (Index)
(कु॒र्वी॒त - ज॑पि॒त्वा - स्वाद्ध्याय॑धर्मे॒ण द्वे च॑)
T.A.1.32.2
अ॑सञ्च॒यवान् । अग्नये वायवे॑ सूर्या॒य । ब्रह्मणे प्र॑जाप॒तये । चन्द्रमसे न॑क्षत्रे॒भ्यः । ऋतुभ्यः सम्ॅव॑थ्सरा॒य । वरुणा-यारुणायेति व्र॑तहो॒माः । प्र॒व॒र्ग्यव॑दादे॒शः । अरुणाः का᳚ण्ड ऋ॒षयः ॥ अरण्ये॑ऽधीयी॒रन्न् । भद्रंकर्णेभिरिति द्वे॑ जपि॒त्वा
कोर्वै (Index)
(कु॒र्वी॒त - ज॑पि॒त्वा - स्वाद्ध्याय॑धर्मे॒ण द्वे च॑)
T.A.1.32.3
महानाम्नीभि-रुदकꣳ सꣳ॑स्प॒र्श्य । तमाचा᳚र्यो द॒द्यात् । शिवानः शन्तमे-त्योषधी॑राल॒भते । सुमृडीके॑ति भू॒मिं । एवम॑पव॒र्गे । धे॑नुर् द॒क्षिणा । कꣳ सम्ॅवास॑श्च क्षौ॒मं । अन्य॑द्वा शु॒क्लं । य॑था श॒क्ति वा । एवꣳ स्वाद्ध्याय॑ धर्मे॒ण ( ) । अरण्ये॑ऽधीयी॒त । तपस्वी पुण्यो भवति तपस्वी पु॑ण्यो भ॒वति ।
कोर्वै (Index)
(कु॒र्वी॒त - ज॑पि॒त्वा - स्वाद्ध्याय॑धर्मे॒ण द्वे च॑)