इ॒मा नु॑कं॒ भुव॑ना सीषधेम । इन्द्र॑श्च॒ विश्वे॑च दे॒वाः ॥ य॒ज्ञ्ञ्च॑ नस्त॒न्वञ्च॑ प्र॒जाञ्च॑ । आ॒दि॒त्यैरिन्दः॑ स॒ह सी॑षधातु ॥ आ॒दि॒त्यैरिन्द्रः॒ सग॑णो-म॒रुद्भिः॑ । अ॒स्माकं॑ भूत्ववि॒ता त॒नूनां᳚ ॥ आप्ल॑वस्व॒ प्रप्ल॑वस्व । आ॒ण्डी भ॑व ज॒ मा मु॒हुः । सुखादीन्दुः॑ खनि॒धनां । प्रति॑मुञ्चस्व॒ स्वां पु॒रं ।
कोर्वै (Index)
(पु॒रं - नव॑द्वारा - ब्र॒ह्मा - च - व्य॑क्तꣳ - श॒रदो॒ऽष्टौ च॑)