योऽसौ॑ त॒पन्नु॒देति॑ । स सर्वे॑षां भू॒तानां᳚ प्रा॒णाना॒दायो॒देति॑ । मा मे᳚ प्र॒जाया॒ मा प॑शू॒नां । मा मम॑ प्रा॒णाना॒दायोद॑गाः ॥ अ॒सौ यो᳚ ऽस्त॒मेति॑ । स सर्वे॑षां भू॒तानां᳚ प्रा॒णाना॒दाया॒स्तमेति॑ । मा मे᳚ प्र॒जाया॒ मा प॑शू॒नां । मा मम॑ प्रा॒णाना॒दाया स्त॑ङ्गाः ॥ अ॒सौ य आ॒पूर्य॑ति । स सर्वे॑षां भू॒तानां᳚ प्रा॒णै रा॒पूर्य॑ति
कोर्वै (Index)
(प्रा॒णैरा॒पूर्य॑ति॒-मोथ्सृ॑पत॒-चोथ्स॑र्पति च॒ - मोथ्सृ॑प॒ द्वे च॑)